पथ्याबिभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम् । प्रस्थेन युक्तञ्च पलङ्कषाणां द्रोणे जले संस्थितमेकरात्रम् ॥ अर्धावशिष्टं क्वथितं कषायं भाण्डे पचेत् पुनरेव लौहे। अमूनि वह्नेरवतार्य दद्याद् द्रव्याणि सञ्चूर्ण्य पलार्द्धकानि ॥विडङ्गदन्तीत्रिफलागुडूचीकृष्णात्रिवृन्नागरकोषणानि यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्बुपानानि च भोजनानि ॥ निषेव्यमाणो निहन्ति रोमांस गृध्रसी नूतनखञ्जताञ्च।। प्लीहानमुग्रं जठराग्निगुल्मं पाण्डुत्वकण्डूवमिवातरक्तम् ॥ पथ्यादिको गुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रभावः । बलेन नागिन समं मनुष्यं जवेन कुर्याततरगेण तुल्यम् […]
