भूतघ्नीस्वरसं प्रस्थमजाक्षीरं च तत्समम्। भृङ्गीनिर्गुण्डिका चैव तक्कारी तुलसीद्वयम्॥ अश्वगन्धी काकजंघी हस्तिकर्णी शतावरी। लाक्षारसं प्रयोज्यं तु बलातैलाढकं तथा॥ एतेषां स्वरसं ग्राह्यं प्रस्थंप्रस्थं पृथक्पृथक् । शनैर्मृग्निना पक्त्वा कल्कद्रव्याणि दापयेत् ॥ कटुकोशीरलशुनं चन्दनं देवदारु च। क्रिमिन मरिचं मुस्ता पञ्चकोलं त्रिजातकम्॥ एतेषां कर्षमात्राणि तैलयुक्तेन योजयेत्। द्विदण्डान्नरव्यवस्त्रेण पिष्टस्याद्वहुपीडयेत्।॥ पानलेपननस्येन पुराणज्वरनाशनम्। एकाहिकं द्व्याहिकं त्र्याहिकं च चतुर्थकम्॥ पक्षान्तज्वरमासान्तं वर्षान्तेऽतिज्वरं हरम्। सर्वं ते […]