विषस्यैकं तथा भागं मरिचं पिप्पली कणा । गन्धकस्य तथा भागं भागं स्याट्टङ्कणस्य वै।। सर्वत्र समभागं स्याद्विभागं हिंगुलं भवेत्। जम्बीरस्य रसेनात्र भाव्यं हिंगुलशोधितम्॥ रसश्चेत्समभागं स्याद्धिंगुलं नेष्यते तदा। गोमूत्रशोधितं चात्र विषं सौरविशोधितम्॥ चूर्णयेत्खल्वमध्ये तु मुद्रमात्रां वटीं चरेत्। मधुना लेहना प्रोक्तं सर्वज्वरनिवृत्तये॥ दध्युदकानुपानेन वातज्वरनिबर्हणः। आईकस्वरसे पानं दारुणे सान्निपातिके॥ जम्बीररसयोगेन अजीर्णज्वरनाशनः। अजाजीगुडसंयुक्तो विषमज्वरनाशनः ॥ जीर्णज्वरे महाघोरे पुरुषे यौवनान्विते। पूर्णमात्रा […]