त्रिफलायास्त्रयः प्रस्थाः प्रस्थैका चामृता भवेत्।। सङ्कट्य लोहपात्रे तु सार्धद्रोणाम्बुना पचेत्। जलमर्धशृतं ज्ञात्वा गृह्णीयाद् वस्त्रगालितम्।। ततः क्वाथे क्षिपेच्छुद्धं प्रस्थ गुग्गुलं सम्मितम्। पुनः पचेदयःपात्रे दा सङ्घट्टयेन्मुहुः।। सान्द्रीभूतं च तं ज्ञात्वा गुडपाकसमाकृतिम्। चूर्णीकृत्य ततस्तत्र द्रव्याणीमानि निक्षिपेत्। त्रिफला द्विपला ज्ञेया गुडूची पलिका में। षडक्षं त्र्यूषणं प्रोक्तं विडङ्गानां पलार्धकम् । दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृता। ततः पिण्डीकृतं सर्वं घृतपात्रे विनिक्षिपेत्।। […]
