त्र्यूषणं त्रिफला मुस्तां विडङ्गान्यथ चित्रकम् । शट्येला पिप्पलीमूलं माक्षिकं देवदारु च।। तुम्बुरु पौष्करं मूलं चविकातिविषा तथा। द्वे हरिद्रे विडं कृष्णा यवक्षार: ससन्धैवः ।। हस्तिपिप्ल्यपामार्गा: समभागानि कारयेत्। गुग्गुलुं द्विगुणं दद्याद् गुलिकास्त्वक्षसम्मिताः।। भक्षयेत यथाकामं माक्षिकेण समन्वितम्। मधुमार्दीकमैरेयसुराशीधुसुखोदकम्।। दाडिमाम्बु यवक्षारमनुपाने प्रशस्यते। एतत्सर्वेषु गुल्मेषु प्लीह्नि सर्वोदरेषु च।। अर्शोभगन्दरे शोषे तथा क्षतक्षये। वातव्याधिषु सर्वेषु सर्वेष्वेव व्रणेषु च।। अष्टादशसु कुष्ठेषु स्त्रीणां […]
Category: Yog ( Formulations )
नागरं पिप्पली मूल पिप्पली चव्य चित्रकौ। भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम्। रेणुकेन्द्रयवाः पाठा विडङ्गं गजपिप्पली।। कटुकातिविषा भाङ्गीं वचा मूर्वे त्रिभागतः। प्रत्येकं शाणिकानि स्युर्दव्याणीमानि विंशतिः।। द्रव्येभ्यः सकलेभ्यश्च त्रिफला द्विगुणा भवेत्। एभिश्चूर्णीकृतैः सर्वैः समो देयश्च गुग्गुलुः।। वनं रौप्यं च नागं च लोहसारस्तथाभ्रकम्। मण्डूरं रससिन्दूरं प्रत्येकं पलसम्मितम्।। गुडपाकसमं कृत्वा द्यादैतद् यथोचितम्। एकपिण्डं ततः कृत्वा धारेयद् घृतभाजने।।गुटिकाः शाणमात्रास्तु कृत्वा […]
त्रिफलायास्त्रयः प्रस्थाः प्रस्थैका चामृता भवेत्।। सङ्कट्य लोहपात्रे तु सार्धद्रोणाम्बुना पचेत्। जलमर्धशृतं ज्ञात्वा गृह्णीयाद् वस्त्रगालितम्।। ततः क्वाथे क्षिपेच्छुद्धं प्रस्थ गुग्गुलं सम्मितम्। पुनः पचेदयःपात्रे दा सङ्घट्टयेन्मुहुः।। सान्द्रीभूतं च तं ज्ञात्वा गुडपाकसमाकृतिम्। चूर्णीकृत्य ततस्तत्र द्रव्याणीमानि निक्षिपेत्। त्रिफला द्विपला ज्ञेया गुडूची पलिका में। षडक्षं त्र्यूषणं प्रोक्तं विडङ्गानां पलार्धकम् । दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृता। ततः पिण्डीकृतं सर्वं घृतपात्रे विनिक्षिपेत्।। […]
त्रिपलं त्रिफलाचूर्णं कृष्णाचूर्णं पलोन्मितम्। गुग्गुलुः पाञ्चपलिकः क्षोदयेत् सर्वमेकतः।।ततस्तु गुटिकां कृत्वा प्रयुञ्ज्याद् वह्न्यपेक्षया। भगन्दरं गुल्मशोथावासि च विनाशयेत्।। (शा. सं. मं. 7/82-83) Ingredients:- त्रिफला चूर्ण(Terminalia chebulaTerminalia belliricaPhyllanthus emblica) 12 तोला ~ 120g पीपल का चूर्ण(Ficus religious) 4 तोला ~ 40g शुद्ध गुग्गुलु(Commiphora mukul) 20 तोला ~ 200g विधि:- सभी द्रव्यों को एक साथ कूटकर घृत के साथ […]
खदिरकदरतिनिशासनशिरीषशिशपाशाकसर्जा र्जुनजम्दूकरवीरधवामलकोमुष्ककाक्षिकबदरीवञ्चलनिम्बक रञ्जकदम्बमधूकसारान् साान कृतमालनिचुलपटोलाङ्कोल बलाविल्वकुटजकटभीपारिभद्र सहचरगृध्रनखोवरणवर्धमाना – | शौभजनाटरूषकशतावरीश्वदंष्ट्राहिमाराश्वकर्णश्रीपर्णी – स्वयंगुप्ताग्निमन्येन्द्र वारुणीकाकोदुम्बरिकामेषशृङ्गोडुण्डुक – गुल्चीवर्षाभूवायसीबृहतीद्वयरोहिणीमूर्वाशाङ्गाष्ठामूलानि च शकलयित्वा पृथक् त्रिशत्पलिकानि संझुद्य महति कटाहेऽष्ट | गुणेनाम्भसा क्वाथयेत् । अष्टभागशेष निर्यहमवतार्य परि स्राव्य च तस्मिन् सर्पिषः पल्तत्रघं विपचेद्दोषदवशेषकषा ये च विदलीकृतारुष्करसहस्रत्रयमत्रावाप्य पुनः पाचयेद्विगत स्वरसान्यरुष्कराण्यपास्य तस्मिन् स्नेहे सुचूणितानि प्रक्षिपेत्। व्याधिघातव्योषनाकुलीमार्कवार्ककाकादनीतगरकटुकाकुष्ठ – विल्वहिङगुविलङ्गचित्रकातिविषामस्तेन्द्रयवेन्द्रावारुणीरूप्य – मललोहरजोलोहकान्तरसाजनाभ्रशुकनासादेवदालीत्रिफला लाङ्गलिकोविशालाकुम्भनिकुम्भवचावाराहीमहाद्रुम कोशा तकीप्रपुन्नाट सोमपर्णीनलिकाद्वयपटोलोजातीपल्लवताप्यकार वेल्लीकूलिकाकन्दकसप्तच्छदशाङ्गाष्ठोत्पलशारिवागुल्गुलुशि […]
शिलाजतुताप्यरूप्यायोमलाः पृथक् पञ्चपलिकास्त्रि फलादयश्च विगतघनाः पलांशाः श्लक्ष्णरजसः सितोपलापलाष्टकयुक्ताः क्षौद्रुता योगराजः। कुलत्थादियूषाशिना यथाग्न्यभ्यवहृतः समानः पूर्वेण । यक्ष्मविषविषज्वरकास श्वास अपस्मार हरश्च ॥ ( अष्टांग संग्रह चिकित्सा पांडु 18/9 ) Ingredients :- द्रव्य मात्रा शिलाजीत – mineral pitch 5 पल ~ 240 grams स्वर्ण माक्षिक 5 पल ~ 240 grams मंडूर भस्म 5 पल ~ 240 grams त्रिफला […]
Botanical name :- Commiphora wightii Sym :- Commiphora mukul Family :- Burseraceae Vernicular Names :- तेलगु :- चेट्टा तमिल :- मैशक्षी, गुक्कुलु बंगाली :- मुकुल नेपाली :- गोकुल धूप Classical Mentions :- राज निघण्टु :- चंदनादि वर्ग ( 3 भेद ) हृदय दीपक निघण्टु :- द्विपाद वर्ग मदनपाल निघंटु :- कर्पूरादि वर्ग चरक संहिता :- […]
प्रवालमुक्ताफलशंखशुक्ति कपर्दिकानां च समांशभागम् ।प्रवालमात्र द्विगुणं प्रयोज्यं सर्वैः समांशं रविद्ग्धमेय।।एकीकृतं तत्खलु भाण्डमध्ये क्षिप्त्या मुखे बन्धनमत्र योज्यम्। पुटं विदध्यादतिशीतले च उद्धृत्य तद्भस्म क्षिपेत्करण्डे।। नित्यं द्विवारं प्रतिपाकयुक्तं वल्लप्रमाणं हि नरेण सेव्यम्।आनाहगुल्मोदर प्लीहकासश्वासाग्निमान्द्यान्कफमारुत्तोत्थान्।।अजीर्णमुद्गार हृदामयध्नं ग्रहण्यतीसार विकारनाशनम्।मेहामयं मूत्ररोगं मूत्रकृच्छू तथाश्मरीम्।। नाशयेन्नात्र सन्देहः सत्यं गुरुवाचो यथा।पथ्याश्रितं भोजनमादरेण समाचरेन्निर्मलचित्तवृत्त्या।। प्रवालपञ्चामृतनामधेयो योगोत्तमः सर्वगदापहारी।। (भै. र. गुल्म 32/116-120) घटक द्रव्य :- प्रवाल भस्म […]
घटक द्रव्य :- मुक्ता पिष्टि – 1 भाग मुक्ताशुक्ति भस्म – 1 भाग शंख भस्म – 1 भाग गुडूची सत्त्व – 1 भाग प्रवाल पिष्टी – 1 भाग कपर्दिका भस्म – 1 भाग शुद्ध गैरिक – 1 भाग Trick to Learn :- प्रवीण कोड़ी के भाव में शंख खरीदकर, गेरुआ वस्त्र धारण कर मुक्ति के […]
पारदामृतलवङ्ग गन्धर्व भागयुग्ममरिचेन मिश्रितम्। जातिकाफलमथार्द्धभागिकं तिन्तिडीफलरसेन मर्दितम्।। मायमात्रमनुपानयोगतः सद्य एव जठराग्निदीपनः। सङ्ग्रह ग्रहण कुम्भकर्ण सामवातखरदूषणं जयेत् । वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः।। (‘भै. र. अग्निमांद्य 10/90-92) घटक द्रव्य :- शुद्ध पारद – 1 भाग शद्ध वत्सनाभ -1 भाग शुद्ध गन्धक – 1 भाग जायफल – ½ भाग लवङ्ग – 1 भाग मरिच – 2 भाग […]